शब्दशक्ती
शब्दे वाटू धन, जन लोकां….
ईशावास्योपनिषद्
ईशावास्यम् इदं सर्वम् यत्किंच जगत्यां जगत् ||
तेन त्यक्तेन भुंजीथा मा गृधः कस्यस्वित् धनम् ||१||
कुर्वन्नैवह कर्माणि जिजीवेषत शतम् समाः
एवम् त्वयि नान्यथे तोSस्ति न कर्म लिप्यते नरे ||२||
असूर्या नाम ते लोका अंधेन तमसावृता
तांस्ते प्रेत्याभिगच्छंति ये के चात्महनो जनाः ||३||
अनेजदेकम् मनसोजवीयो नैनद्देवा आप्नुवन् पूर्वमर्षत्
तद्धावतोन्यान् अत्येति तिष्ठत् तस्मिन्नपो मातरिश्वा दधाति ||४||
तदेजति तन्नैजति तद्दूरे तद्वंतिके
तदंतरस्य सर्वस्य तदुसर्वस्यास्य बाह्यतः ||५||
यस्तु सर्वाणि भूतानि आत्मन्येवानुपष्यति
सर्वभूतेषुचात्मानम् ततो न विजुगुप्सते ||६||
यस्मिन् सर्वाणि भूतानि आत्मैवाभूद्विजानतः
तत्र को मोहः कः शोक एकत्वम् अनुपश्यतः ||७||
स पर्यगात् शुक्रम्अकायम् अव्रणम् अस्नाविरम् शुद्धम् अपापविद्धम्
कविर्मनीषि परिभूः स्वयंभूः यथातथ्यतो अर्थान् व्यदधात् शाश्वतीभ्यः समाभ्यः ||८||
अन्धतमः प्रविशन्ति ये अविद्यामुपासते
ततो भूय इव ते तमो ये उ विद्यायाम् रताः ||९||
अन्यदेवाहुर्विद्यया अन्यदाहुरविद्यया
इति शुश्रुम धीराणाम् येनस्तद्विचचक्षिरे ||१०||
विद्यांच्या विद्यांच यस्तद्वेदोभयं सह
अविद्यया मृत्युम् तीर्त्वा विद्ययामृतमश्नुते ||११ ||
अंधतमःप्रविशन्ति ये असंभूतिमुपासते
ततो भूय इव ते तमो ये उ संभूत्याम् रताः ||१२||
अन्यदेवाहुर्संभवाअन्यदाहुरसंभवात्
इति शुश्रुम धीराणां येनस्तद्विचचक्षिरे ||१३||
संभूतिंच विनाशंच यस्तद्वेदोभयं सह
विनाशेन मृत्युं तीर्त्वा संभूत्यामृतमश्नुते ||१४||
हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखं
तत्त्वम् पूषन् अपावृणु सत्यधर्माय दृष्टये ||१५||
पूषन्नेकर्षेयमसूर्यप्राजापत्य व्यूह रश्मीन्समूह तेजोयत्ते रूपं कल्याणतमम्
तत् ते पश्यामि योSअसावसौ पुरुषः सोहम् अस्मि ||१६||
वायुरनिलममृतमथेदं भस्मांतम् शरीरम्
ओम् क्रतो स्मर कृतम् स्मर क्रतो स्मर कृतम् स्मर ||१७||
अग्ने नय सुपथा राये अस्मान् विश्वानि देव वयुनानि विद्वान्
युयोधि अस्मद्जुहुराणमेनो भूयिष्ठां ते नमउक्तिम् विधेम ||१८||